२.८३.१५

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥

अन्वयः

आवासम् the shelters in that camp, आदीपयताम् those who are burning, तीर्थं चापि through the descent of the river, अवगाहताम् those who are going down, भाण्डानि supplies, आददानानाम् of transporting, घोषः clamour, त्रिदिवम् the heaven, अस्पृशत् not touching.

M N Dutt

And the uproar consequent of the troops burning down dwellings, pressing down descents to the river, and loading goods, spread on all sides.

Summary

The clamour of the people setting fire to the temporary shelters in that camp, descending down the river and transporting the supplies into the boats reached the heaven.

पदच्छेदः

आवासम्आवास (२.१)
आदीपयतांआदीपयत् (√आ-दीपय् + शतृ, ६.३)
तीर्थंतीर्थ (२.१)
चाप्य् (अव्ययः)–अपि (अव्ययः)
अवगाहताम्अवगाहत् (√अव-गाह् + शतृ, ६.३)
भाण्डानिभाण्ड (१.३)
चाददानानां (अव्ययः)–आददान (√आ-दा + शानच्, ६.३)
घोषस्घोष (१.१)
त्रिदिवम्त्रिदिव (२.१)
अस्पृशत्अस्पृशत् (√स्पृश् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा मा दी तां
ती र्थं चाप्य गा ताम्
भा ण्डानि चा दा ना नां
घोस्त्रिदिस्पृ शत्