२.८३.६

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥

अन्वयः

रामस्य of Rama, अनुवशः obedient, भरतोऽपि Bharata too, स्नेहात् out of affection, उदीरितम् uttered, तत् that, गुहस्य Guha's, वचनम् words, श्रुत्वा on hearing, इदं वाक्यम् these words, अब्रवीत् said.

M N Dutt

Hearing Guha's speech fraught with affection, Bharata ever obedient to Rāma, spoke on his pare, saying. "Happily have we spent the night; and we have also been well received by you. Now let your servants take us over by means of many boats."

Summary

On hearing Guha's affectionate words Bharata, ever obedient to Rama, replied:

पदच्छेदः

गुहस्यगुह (६.१)
तत्तद् (२.१)
तुतु (अव्ययः)
वचनंवचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
स्नेहाद्स्नेह (५.१)
उदीरितम्उदीरित (√उत्-ईरय् + क्त, २.१)
रामस्यानुवशोराम (६.१)–अनुवश (१.१)
वाक्यंवाक्य (२.१)
भरतोभरत (१.१)
ऽपीदम्अपि (अव्ययः)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गुस्यत्तु नं
श्रु त्वा स्ने हादु दीरि तम्
रा स्यानु शो वा क्यं
तो ऽपीब्र वीत्