२.८४.२०

जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् ॥

अन्वयः

ते your, मनस्थम् feelings of your heart, एतत् this, जाने च I am aware, दृढीकरणम् अस्तु let it be confirmed, इति in this manner, (तव your), कीर्तिम् fame, अत्यर्थम् greatly, समभिवर्धयन् to increase it, त्वाम् you, अपृच्छम् I asked.

M N Dutt

I know that even this is your intention, but for the purpose of making your mind all the firmer, I had asked you in this wise; so that your fame might greatly increase.

Summary

I am aware of the feelings in your heart. Even then I enquired in order to confirm it and to further your fame.

पदच्छेदः

जानेजाने (√ज्ञा लट् उ.पु. )
चैतन् (अव्ययः)–एतद् (२.१)
मनःस्थंमनस्–स्थ (२.१)
तेत्वद् (६.१)
दृढीकरणम्दृढीकरण (१.१)
अस्त्व्अस्तु (√अस् लोट् प्र.पु. एक.)
इतिइति (अव्ययः)
अपृच्छंअपृच्छम् (√प्रच्छ् लङ् उ.पु. )
त्वांत्वद् (२.१)
तवात्यर्थंत्वद् (६.१)–अत्यर्थम् (अव्ययः)
कीर्तिंकीर्ति (२.१)
समभिवर्धयन्समभिवर्धयत् (√समभि-वर्धय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जा ने चैन्म नः स्थं ते
दृ ढीस्त्विति
पृ च्छं त्वां वा त्य र्थं
की र्तिंभिर्ध यन्