२.८४.५

समागम्य वसिष्ठेन भरतेनाभिवादितः ।
अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥

अन्वयः

महातेजाः radiant Bharadwaja, वसिष्ठेन with Vasistha, समागम्य having met, भरतेन by Bharata, अभिवादितः greeted, तम् him, दशरथस्य Dasaratha's, सुतम् as son, अबुद्ध्यत knew of.

M N Dutt

On being called upon by Vasiştha, that highly energetic one understood that it was Daſaratha's son.

Summary

After meeting Vasistha and greeted by Bharata, the radiant Bharadwaja could recognize he was the son of Dasaratha.

पदच्छेदः

समागम्यसमागम्य (√समा-गम् + ल्यप्)
वसिष्ठेनवसिष्ठ (३.१)
भरतेनाभिवादितःभरत (३.१)–अभिवादित (√अभि-वादय् + क्त, १.१)
अबुध्यतअबुध्यत (√बुध् लङ् प्र.पु. एक.)
महातेजाःमहत्–तेजस् (१.१)
सुतंसुत (२.१)
दशरथस्यदशरथ (६.१)
तम्तद् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

माम्य सि ष्ठे
ते नाभि वादि तः
बुध्य हा ते जाः
सु तंस्य तम्