२.८५.२०

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥

अन्वयः

तस्य his, प्राङ्मुखस्य facing east, कृताञ्जलेः with folded palms, मनसा in mind, ध्यायतः while meditating, सर्वाणि all, तानि दैवतानि those deities, पृथक्पृथक् one by one, आजग्मुः arrived.

M N Dutt

And as he sat with joined hands facing the west with a rapt mind, there came separately all those deities.

Summary

As Bharadwaja with folded palms was thus meditating with his face turned eastward, all the deities appeared there one by one.

पदच्छेदः

मनसामनस् (३.१)
ध्यायतस्ध्यायत् (√ध्या + शतृ, ६.१)
तस्यतद् (६.१)
प्राङ्मुखस्यप्राङ्मुख (६.१)
कृताञ्जलेःकृत (√कृ + क्त)–अञ्जलि (६.१)
आजग्मुस्आजग्मुः (√आ-गम् लिट् प्र.पु. बहु.)
तानितद् (१.३)
सर्वाणिसर्व (१.३)
दैवतानिदैवत (१.३)
पृथक्पृथक्पृथक् (अव्ययः)–पृथक् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा ध्या स्तस्य
प्राङ्मुस्यकृ ताञ्ज लेः
ग्मु स्तानि र्वाणि
दै तानिपृक्पृ थक्