२.८५.३

अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित् ॥

अन्वयः

अथ then, भरद्वाजः Bharadwaja, प्रहसन्निव with a gentle smile, भरतम् to Bharata, उवाच said, त्वाम् you, प्रीतिसंयुक्तम् are full of love, जाने I know, त्वाम् you, येन केन चित् with whatever offered, तुष्येः are contented.

M N Dutt

Then Bharadvāja as if in jest, said to Bharata, "I know you to be of a complacent disposition; and that you are pleased with anything and everything."

Summary

Bharadwaja then said to Bharata with a gentle smile, I know you are full of love and content with whatever is offered you.

पदच्छेदः

अथोवाचअथ (अव्ययः)–उवाच (√वच् लिट् प्र.पु. एक.)
भरद्वाजोभरद्वाज (१.१)
भरतंभरत (२.१)
प्रहसन्न्प्रहसत् (√प्र-हस् + शतृ, १.१)
इवइव (अव्ययः)
जानेजाने (√ज्ञा लट् उ.पु. )
त्वांत्वद् (२.१)
प्रीतिसंयुक्तंप्रीति–संयुक्त (√सम्-युज् + क्त, २.१)
तुष्येस्तुष्येः (√तुष् विधिलिङ् म.पु. )
त्वंत्वद् (१.१)
येनयद् (३.१)
केनचित्कश्चित् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थो वा द्वा जो
तंप्रन्नि
जा ने त्वां प्रीति सं यु क्तं
तु ष्ये स्त्वं ये के चित्