२.८५.४७

ततः सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र संपेतुः कुब्जाभूताथ वामनाः ॥

अन्वयः

ततः then, सरलतालाश्च pine and palmyra trees, तिलकाः tilaka trees, नक्तमालकाः naktamala (that bear flowers at night), प्रहृष्टाः out of great joy, कुब्जाः hunchbacked, अथ also, वामनाः dwarfs, भूत्वा तत्र सम्पेतुः taking the form moved about there.

M N Dutt

And Saralas, Tālas, Tilakas, and Tamālas, being delighted, became hump-backed ones and dwarfs.

Summary

Thereafter pine, palmyra, tilaka, and naktamala trees were transformed into hunchbacks and dwarfs and moved about in great delight.

पदच्छेदः

ततःततस् (अव्ययः)
सरलतालाश्सरल–ताल (१.३)
(अव्ययः)
तिलकातिलक (१.३)
नक्तमालकाःनक्तमालक (१.३)
प्रहृष्टास्प्रहृष्ट (√प्र-हृष् + क्त, १.३)
तत्रतत्र (अव्ययः)
संपेतुःसंपेतुः (√सम्-पत् लिट् प्र.पु. बहु.)
कुब्जाकुब्ज (१.३)
भूत्वाथभूत्वा (√भू + क्त्वा)–अथ (अव्ययः)
वामनाःवामन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः ता लाश्च
ति काक्त मा काः
प्र हृ ष्टा स्तत्र सं पे तुः
कु ब्जा भू ता वा नाः