२.८५.५

किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ ॥

अन्वयः

पुरुषर्षभः best of men, किमर्थम् for what reason, बलम् army, दूरे at a distance, निक्षिप्य having stationed, इह here, आगतः you have come, इह here, सबलः with your army, कस्मात् why, न उपयातः असि not come with.

M N Dutt

Why did you coming higher, leave your army at a distance:? And, you man of men, why did you not come accompanied with your forces?

Summary

Why did you, O Bharata, the best of men, station your army at a distance before coming here? Could you not approach me along with your army?

पदच्छेदः

किमर्थं (२.१)–अर्थ (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
निक्षिप्यनिक्षिप्य (√नि-क्षिप् + ल्यप्)
दूरेदूर (७.१)
बलम्बल (२.१)
इहागतःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.१)
कस्मान्कस्मात् (अव्ययः)
नेहोपयातो (अव्ययः)–इह (अव्ययः)–उपयात (√उप-या + क्त, १.१)
ऽसिअसि (√अस् लट् म.पु. )
सबलः (अव्ययः)–बल (१.१)
पुरुषर्षभपुरुष–ऋषभ (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कि र्थं चापि नि क्षिप्य
दू रेमि हा तः
स्मा न्ने हो या तोऽसि
लःपुरुर्ष