२.८५.५५

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥

अन्वयः

अयोध्याम् to Ayodhya, न गमिष्यामः will not return, दण्डकान् to Danadaka forest, न गमिष्यामः will not go, भरतस्य to Bharata, कुशलम् welfare, अस्तु तथा be like this, रामस्य Rama, सुखम् happy, अस्तु will be.

M N Dutt

To Ayodhyā will we not go, nor yet to Dandaka. Peace be to Bharata, and may Rāma reap happiness!

Summary

We will neither return to Ayodhya, nor enter Dandaka (forest). May Bharata and Rama be happy.

पदच्छेदः

नैवायोध्यां (अव्ययः)–एव (अव्ययः)–अयोध्या (२.१)
गमिष्यामोगमिष्यामः (√गम् लृट् उ.पु. द्वि.)
(अव्ययः)
गमिष्यामगमिष्याम (√गम् लृङ् उ.पु. द्वि.)
दण्डकान्दण्डक (२.३)
कुशलंकुशल (१.१)
भरतस्यास्तुभरत (६.१)–अस्तु (√अस् लोट् प्र.पु. एक.)
रामस्यास्तुराम (६.१)–अस्तु (√अस् लोट् प्र.पु. एक.)
तथातथा (अव्ययः)
सुखम्सुख (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नै वा यो ध्यां मि ष्या मो
मि ष्याण्ड कान्
कु लं स्यास्तु
रा स्यास्तु थासु खम्