२.८५.५७

संप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन् ॥

अन्वयः

भरतस्य Bharata's, अनुयातारः followers, ते नराः those men, तत्र there, सहस्रशः in their thousands, सम्प्रहृष्टाः highly exited with delight, विनेदुः shouted, अयम् this is, स्वर्गः heaven, इति thus, अब्रुवन् च started uttering.

M N Dutt

And men by thousand, exceedinly delighted, sent up shouts. And saying. “This is heaven,” the retiune of Bharata, the soldiers, began to dance and laugh and sing; and bearing garlands, they on all sides rushed by thousands.

Summary

The exceedingly delighted soldiers of Bharata's retinue in their thousands cried out with excitement This is the very heaven.

पदच्छेदः

सम्प्रहृष्टासम्प्रहृष्ट (√सम्प्र-हृष् + क्त, १.३)
विनेदुस्विनेदुः (√वि-नद् लिट् प्र.पु. बहु.)
तेतद् (१.३)
नरास्नर (१.३)
तत्रतत्र (अव्ययः)
सहस्रशःसहस्रशस् (अव्ययः)
भरतस्यानुयातारःभरत (६.१)–अनुयातृ (१.३)
स्वर्गोस्वर्ग (१.१)
ऽयम्इदम् (१.१)
इतिइति (अव्ययः)
चाब्रुवन् (अव्ययः)–अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

संप्र हृ ष्टावि ने दु स्ते
रा स्तत्रस्र शः
स्यानु या ता रः
स्व र्गेऽयमिति चाब्रु वन्