२.८५.५९

प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः ।
बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः ॥

अन्वयः

सहश्रसः in their thousands, प्रेष्याः messengers, चेट्यश्च maidservants, वध्वश्च female attendants, बलस्थाः army attendants, ते they, सर्वे च all of them, अहतवाससः dressed in unworn (new) garments, भृशम् exceedingly, दृप्ताः बभूवुः felt proud of themselves.

M N Dutt

And wearing new clothes, all the servants, and maids, and females of the household, became exceedingly well pleased.

Summary

Messengers, maidservants, female attendants, and soldiers -- all of them in their thousands dressed in fresh garments felt exceedingly proud of themselves.

पदच्छेदः

प्रेष्याश्प्रेष्य (१.३)
चेट्यश्चेटी (१.३)
(अव्ययः)
वध्वश्वधू (१.३)
(अव्ययः)
बलस्थाश्बलस्थ (१.३)
चापि (अव्ययः)–अपि (अव्ययः)
सर्वशःसर्वशस् (अव्ययः)
बभूवुस्बभूवुः (√भू लिट् प्र.पु. बहु.)
तेतद् (१.३)
भृशंभृशम् (अव्ययः)
तृप्ताःतृप्त (√तृप् + क्त, १.३)
सर्वेसर्व (१.३)
चाहतवाससः (अव्ययः)–अहत–वासस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रे ष्या श्चे ट्यश्च ध्वश्च
स्था श्चापिर्व शः
भू वु स्तेभृ शं तृ प्ताः
र्वे चा वा सः