२.८५.६९

शुक्लानंशुमतश्चापि दन्तधावनसंचयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥

पदच्छेदः

शुक्लान्शुक्ल (२.३)
अंशुमतश्अंशुमत् (२.३)
चापि (अव्ययः)–अपि (अव्ययः)
दन्तधावनसंचयान्दन्त–धावन–संचय (२.३)
शुक्लांश्शुक्ल (२.३)
चन्दनकल्कांश्चन्दन–कल्क (२.३)
(अव्ययः)
समुद्गेष्व्समुद्ग (७.३)
अवतिष्ठतःअवतिष्ठत् (√अव-स्था + शतृ, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शु क्ला नंशु श्चापि
न्त धा सं यान्
शु क्लां श्चन्द ल्कांश्च
मु द्गेष्व तिष्ठ तः