२.८५.७६

प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥

अन्वयः

ताः नद्यः those rivers, गन्धर्वाश्च and the gandharvas, सर्वाः all, ताः of them, वराङ्गनाश्च lovely women too, भरद्वाजम् Bharadwaja's, अनुज्ञाप्य obtaining permission, यथागतम् from whereever they had come, प्रतिजग्मुश्च returned.

M N Dutt

Then taking the permission of Bharadvāja, all the Gandharvas as well as the superb damsels went away as they had come.

Summary

Those rivers, the gandharvas and all those lovely women took leave of sage Bharadwaja and returned to where they had come from.

पदच्छेदः

प्रतिजग्मुश्प्रतिजग्मुः (√प्रति-गम् लिट् प्र.पु. बहु.)
(अव्ययः)
तातद् (१.३)
नद्योनदी (१.३)
गन्धर्वाश्गन्धर्व (१.३)
(अव्ययः)
यथागतम्यथागत (२.१)
भरद्वाजम्भरद्वाज (२.१)
अनुज्ञाप्यअनुज्ञाप्य (√अनु-ज्ञापय् + ल्यप्)
ताश्तद् (१.३)
(अव्ययः)
सर्वासर्व (१.३)
वराङ्गनाःवर–अङ्गना (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रति ग्मुश्च ता द्यो
न्ध र्वाश्च था तम्
द्वा नु ज्ञाप्य
ताश्च र्वा राङ्ग नाः