२.८६.५

सुखोषितोऽस्मि भगवन्समग्रबलवाहनः ।
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥

अन्वयः

भगवन् O holy one, सामात्यः with my ministers, समग्रबलवाहनः with the entire army and animals, त्वया by you, बलवत् exceedingly, सर्वकामैः with all desires, तर्पितः gratified, सुखोषितः अस्मि passed pleasantly.

Summary

O holy one, I with my ministers and the entire army of men and animals passed the night happily. All our desires have been gratified by you.

पदच्छेदः

सुखोषितोसुख–उषित (√वस् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
भगवन्भगवत् (८.१)
समग्रबलवाहनःसमग्र–बल–वाहन (१.१)
तर्पितःतर्पित (√तर्पय् + क्त, १.१)
सर्वकामैश्सर्व–काम (३.३)
(अव्ययः)
सामात्यो (अव्ययः)–अमात्य (१.१)
बलवत्बलवत् (२.१)
त्वयात्वद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु खोषि तोऽस्मि
न्सग्र वा नः
र्पि तःर्व का मैश्च
सा मा त्योत्त्व या