२.८७.१६

स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् ।
एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने ॥

अन्वयः

शत्रुघ्न O Satrughna, कानने in the forest, शीघ्रम् quickly, सम्पततः flying, सूतमुख्यैः by excellent charioteers, अधिष्ठितान् commanded by, तुरगोपेतान् drawn by horses, एतान् these, स्यन्दनान् chariots, पश्य behold.

M N Dutt

And, O Satrughna, see how fast these cars yoked with steeds and driven by skilful charioteers, are proceeding in the forest.

Summary

Behold, O Satrughna, these chariots, commanded by excellent charioteers, harnessed with horses are flying through the forest.

पदच्छेदः

स्यन्दनांस्स्यन्दन (२.३)
तुरगोपेतान्तुरग–उपेत (√उप-इ + क्त, २.३)
सूतमुख्यैर्सूत–मुख्य (३.३)
अधिष्ठितान्अधिष्ठित (√अधि-स्था + क्त, २.३)
एतान्एतद् (२.३)
संपततःसंपतत् (√सम्-पत् + शतृ, २.३)
शीघ्रंशीघ्र (२.१)
पश्यपश्य (√पश् लोट् म.पु. )
शत्रुघ्नशत्रुघ्न (८.१)
काननेकानन (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यन्द नांस्तु गो पे ता
न्सू मु ख्यै धिष्ठि तान्
ता न्सं तः शी घ्रं
श्य त्रुघ्न का ने