२.८७.१७

एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् ।
एतमाविशतः शैलमधिवासं पतत्रिणाम् ॥

अन्वयः

प्रियदर्शनान् pleasant to look, वित्रासितान् frightened, एतम् अधिवासम् their nests, शीघ्रम् hurriedly, आविशतः entering, एतान् these, बर्हिणः peacocks, पतत्रिणः birds, पश्य behold.

M N Dutt

And behold these beauteous peacocks, which, being frightened, take refuge in the mountain, the home of feathered tribes.

Summary

Behold, these lovely frightened peacocks and other birds hurriedly entering their nests.

पदच्छेदः

एतान्एतद् (२.३)
वित्रासितान्वित्रासित (√वि-त्रासय् + क्त, २.३)
पश्यपश्य (√पश् लोट् म.पु. )
बर्हिणःबर्हिन् (२.३)
प्रियदर्शनान्प्रिय–दर्शन (२.३)
एतम्एतद् (२.१)
आविशतःआविशत् (√आ-विश् + शतृ, २.३)
शैलम्शैल (२.१)
अधिवासंअधिवास (२.१)
पतत्रिणाम्पतत्रिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता न्वि त्रासि ता न्पश्य
र्हि णःप्रिर्श नान्
मावि तः शै
धि वा संत्रि णाम्