२.८७.२७

व्यवस्थिता या भरतेन सा चमू;र्निरीक्षमाणापि च धूममग्रतः ।
बभूव हृष्टा नचिरेण जानती; प्रियस्य रामस्य समागमं तदा ॥

अन्वयः

या the army, भरतेन by Bharata, व्यवस्थिता has been halted, चमूः army, अग्रतः in the forefront, भूमिम् the space, निरीक्षमाणाऽपि च even though gazing at, न चिरेण not long before, तदा then, प्रियस्य of the beloved, रामस्य Rama's, समागमम् union, जानती knowing, हृष्टा बभूव rejoiced.

M N Dutt

Desired by Bharata to halt, that army, looking in the direction of the smoke, rejoiced soon on learning that the beloved Rāma had arrived (at that place).

Summary

The army thus halted by Bharata, gazing at the space before them rejoiced at the thought that not long before they would rejoin their beloved Rama.इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे त्रिनवतितमस्सर्गः॥Thus ends the ninetythird sarga in Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

व्यवस्थिताव्यवस्थित (√व्यव-स्था + क्त, १.१)
यायद् (१.१)
भरतेनभरत (३.१)
सातद् (१.१)
चमूर्चमू (१.१)
निरीक्षमाणापिनिरीक्षमाण (√निः-ईक्ष् + शानच्, १.१)–अपि (अव्ययः)
(अव्ययः)
धूमम्धूम (२.१)
अग्रतःअग्रतस् (अव्ययः)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
हृष्टाहृष्ट (√हृष् + क्त, १.१)
नचिरेणनचिरेण (अव्ययः)
जानतीजानत् (√ज्ञा + शतृ, १.१)
प्रियस्यप्रिय (६.१)
रामस्यराम (६.१)
समागमंसमागम (२.१)
तदातदा (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
व्यस्थि ता या ते सा मू
र्नि रीक्ष मा णापि धूग्र तः
भू हृ ष्टाचि रे जा ती
प्रिस्य रास्य मा मं दा