२.८८.१०

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥

पदच्छेदः

पुष्पवद्भिःपुष्पवत् (३.३)
फलोपेतैश्फल–उपेत (√उप-इ + क्त, ३.३)
छायावद्भिर्छायावत् (३.३)
मनोरमैःमनोरम (३.३)
एवमादिभिर्एवम् (अव्ययः)–आदि (३.३)
आकीर्णःआकीर्ण (√आ-कृ + क्त, १.१)
श्रियंश्री (२.१)
पुष्यत्य्पुष्यति (√पुष् लट् प्र.पु. एक.)
अयंइदम् (१.१)
गिरिःगिरि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुष्प द्भिः लो पे तै
श्छा या द्भिर्म नो मैः
मादिभि रा की र्णः
श्रि यं पु ष्यत्य यंगि रिः