२.८८.२०

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥

अन्वयः

बहुलैः several, नीलपीतसितारुणैः blueblack, yellow, white and red, वर्णैः colours, बहुलाः many, विशालाः massive, शैलस्य mountain's, शिलाः rocks, शतशः in hundreds, अभितः on all sides, शोभन्ते are looking splendid.

M N Dutt

The giant crags of the mountain grace the place all round by hundreds; many and varioushued, blue and yellow and pale and red.

Summary

Several hundreds of massive rocks of the mountain look splendid all around, in blueblack, yellow, white and red colours.

पदच्छेदः

शिलाःशिला (१.३)
शैलस्यशैल (६.१)
शोभन्तेशोभन्ते (√शुभ् लट् प्र.पु. बहु.)
विशालाःविशाल (१.३)
शतशोशतशस् (अव्ययः)
ऽभितःअभितस् (अव्ययः)
बहुलाबहुल (१.३)
बहुलैर्बहुल (३.३)
वर्णैर्वर्ण (३.३)
नीलपीतसितारुणैःनील–पीत–सित–अरुण (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शि लाः शैस्य शो न्ते
वि शा लाः शोऽभि तः
हु लाहु लै र्व र्णै
र्नी पीसि तारु णैः