२.९.१

एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना ।
दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् ॥

अन्वयः

एवम् thus, उक्ता spoken to (by Manthara), कैकेयी Kaikeyi, क्रोधेन (कोपेन) in anger, ज्वलितानना face burning (with anger), दीर्घम् deep, उष्णम् hot, विनिश्वस्य having breathed, मन्थराम् to Manthara, इदम् these words, अब्रवीत् said

Summary

Having heard Kaikeyi's words Manthara was extremely unhappy. Heaving deep, hot sighs she said to Kaikeyi.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्ताउक्त (√वच् + क्त, १.१)
तुतु (अव्ययः)
कैकेयीकैकेयी (१.१)
क्रोधेनक्रोध (३.१)
ज्वलिताननाज्वलित (√ज्वल् + क्त)–आनन (१.१)
दीर्घम्दीर्घ (२.१)
उष्णंउष्ण (२.१)
विनिःश्वस्यविनिःश्वस्य (√विनिः-श्वस् + ल्यप्)
मन्थराम्मन्थरा (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तातु कै के यी
क्रो धेज्वलि ता ना
दीर्घ मु ष्णंवि निः श्वस्य
न्थ रामिब्र वीत्