२.९.१९

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः ॥

अन्वयः

महीपति: lord of the earth (king), तव your, वाक्यम् words, अतिक्रमितुम् to transgress, न शक्त: हि is not able, मन्दस्वभावे evilnatured, आत्मन: your own, सौभाग्यबलम् power of your beauty, बुध्यस्व recognise.

Summary

The king would not dare transgress your words. O wicked woman, recognise the power of your beauty.

पदच्छेदः

(अव्ययः)
ह्य्हि (अव्ययः)
अतिक्रमितुंअतिक्रमितुम् (√अति-क्रम् + तुमुन्)
शक्तस्शक्त (√शक् + क्त, १.१)
तवत्वद् (६.१)
वाक्यंवाक्य (२.१)
महीपतिःमहीपति (१.१)
मन्दस्वभावेमन्द–स्वभाव (८.१)
बुध्यस्वबुध्यस्व (√बुध् लोट् म.पु. )
सौभाग्यबलम्सौभाग्य–बल (२.१)
आत्मनःआत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ह्य तिक्रमि तुंक्त
स्त वा क्यं ही तिः
न्दस्व भा वे बु ध्यस्व
सौ भाग्य मात्म नः