२.९.२०

मणिमुक्तासुवर्णानि रत्नानि विविधानि च ।
दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥

अन्वयः

दशरथ: राजा king Dasaratha, मणिमुक्तासुवर्णानि gems, pearls and gold, विविधानि of different kinds, रत्नानि च precious stones also, दद्यात् may give, तेषु in them, मन: mind, मा कृथा: do not pay attention

Summary

King Dasaratha may give you gems, pearls, gold and different kinds of precious stones. Do not pay them any attention.

पदच्छेदः

मणिमुक्तासुवर्णानिमणि–मुक्ता–सुवर्ण (२.३)
रत्नानिरत्न (२.३)
विविधानिविविध (२.३)
(अव्ययः)
दद्याद्दद्यात् (√दा विधिलिङ् प्र.पु. एक.)
दशरथोदशरथ (१.१)
राजाराजन् (१.१)
मामा (अव्ययः)
स्मस्म (अव्ययः)
तेषुतद् (७.३)
मनःमनस् (२.१)
कृथाःकृथाः (√कृ म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

णि मु क्तासु र्णानि
त्नानिविवि धानि
द्याद्द थो रा जा
मास्म तेषु नःकृ थाः