२.९.२१

यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात् ।
तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् ॥

अन्वयः

महाभागे O highly fortunate one, दशरथ: of Dasaratha, दैवासुरे युद्धे in the war between gods and demons, यौ which, तौ two, वरौ boons, अददात् had given, तौ those two, स्मारय remind, अर्थ: the objective, त्वाम् you, अतिक्रमेत् may not transgress.

Summary

O fortunate Kaikeyi, make him recollect the two boons he had granted you in the war between gods and demons. You should not ignore your objective.

पदच्छेदः

यौयद् (२.२)
तौतद् (२.२)
देवासुरेदेवासुर (७.१)
युद्धेयुद्ध (७.१)
वरौवर (२.२)
दशरथोदशरथ (१.१)
ऽददात्अददात् (√दा लङ् प्र.पु. एक.)
तौतद् (२.२)
स्मारयस्मारय (√स्मारय् लोट् म.पु. )
महाभागेमहाभाग (८.१)
सोतद् (१.१)
ऽर्थोअर्थ (१.१)
मामा (अव्ययः)
त्वाम्त्वद् (२.१)
अतिक्रमेत्अतिक्रमेत् (√अति-क्रम् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यौ तौ दे वासु रे यु द्धे
रौ थोऽद दात्
तौ स्मा हा भा गे
सो ऽर्थो मा त्वा तिक्र मेत्