२.९.२२

यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥

अन्वयः

राघव: the descendant of the Raghus (Dasaratha), स्वयम् personally, उत्थाप्य lifting you up from the floor, ते to you, वरम् boon, यदा when, दद्यात् gives then, त्वम् you, तं महाराजम् to that monarch, व्यवस्थाप्य making him settle down, इमम् वरम् this boon, वृणुया: you may seek.

Summary

When Dasaratha personally lifts you from the floor and asks you what you want you may make him settle down and ask him for these boons:

पदच्छेदः

यदायदा (अव्ययः)
तुतु (अव्ययः)
तेत्वद् (४.१)
वरंवर (२.१)
दद्यात्दद्यात् (√दा विधिलिङ् प्र.पु. एक.)
स्वयम्स्वयम् (अव्ययः)
उत्थाप्यउत्थाप्य (√उत्-स्थापय् + ल्यप्)
राघवःराघव (१.१)
व्यवस्थाप्यव्यवस्थाप्य (√व्यव-स्थापय् + ल्यप्)
महाराजंमहत्–राज (२.१)
त्वम्त्वद् (१.१)
इमंइदम् (२.१)
वृणुयावृणुयाः (√वृ विधिलिङ् म.पु. )
वरम्वर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दातु ते रं द्या
त्स्व मु त्थाप्य रा वः
व्य स्थाप्य हा रा जं
त्वमि मंवृणु या रम्