२.९.२८

कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ।
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥

अन्वयः

कुब्जे O hunchback श्रेष्ठाभिधायिनीम् speaking excellent words, त्वाम् you, श्रेष्ठाम् as the best, नाभिजानामि I did not recognise, बुद्धिनिश्चये in ascertaining intelligence, पृथिव्याम् in this world, कुब्जानाम् among the hunchbacks, उत्तमा असि you are the best one.

Summary

(She said) O hunchback, I never knew that you can speak such excellent words or decide things intelligently. You are the best among the hunchbacks of this world.

पदच्छेदः

कुब्जेकुब्ज (८.१)
त्वांत्वद् (२.१)
नाभिजानामि (अव्ययः)–अभिजानामि (√अभि-ज्ञा लट् उ.पु. )
श्रेष्ठांश्रेष्ठ (२.१)
श्रेष्ठाभिधायिनीम्श्रेष्ठ–अभिधायिन् (२.१)
पृथिव्याम्पृथिवी (७.१)
असिअसि (√अस् लट् म.पु. )
कुब्जानाम्कुब्ज (६.३)
उत्तमाउत्तम (१.१)
बुद्धिनिश्चयेबुद्धि–निश्चय (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कु ब्जे त्वां नाभि जा नामि
श्रे ष्ठां श्रे ष्ठाभि धायि नीम्
पृ थि व्यासि कु ब्जा ना
मुत्त मा बुद्धि निश्च ये