२.९.२९

त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ।
नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् ॥

अन्वयः

कुब्जे O hunchback, त्वमेव you alone, मम my, अर्थेषु in (my) affairs, नित्ययुक्ता always showing interest, हितैषिणी seeking welfare, अहम् I, राज्ञ: king's, चिकीर्षितम् the intended action, न समवबुध्येयम् I might not have known.

Summary

O hunchback you alone always show interest in my affairs and seek my welfare. I might not have known the intended (deceptive) action of the king (without you).

पदच्छेदः

त्वम्त्वद् (१.१)
एवएव (अव्ययः)
तुतु (अव्ययः)
ममार्थेषुमद् (६.१)–अर्थ (७.३)
नित्ययुक्तानित्य–युक्त (√युज् + क्त, १.१)
हितैषिणीहित–एषिन् (१.१)
नाहं (अव्ययः)–मद् (१.१)
समवबुध्येयंसमवबुध्येयम् (√समव-बुध् विधिलिङ् उ.पु. )
कुब्जेकुब्ज (८.१)
राज्ञश्राजन् (६.१)
चिकीर्षितम्चिकीर्षित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व मेतु मा र्थेषु
नित्य यु क्ताहि तैषि णी
ना हं बु ध्ये यं
कु ब्जे रा ज्ञश्चि कीर्षि तम्