२.९.३

इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥

अन्वयः

मन्थरे O Manthara केन उपायेन, कथञ्चन by any means, राज्यम् kingdom, प्राप्नुयात् will get, राम: तु for sure, न shall not (obtain), इदम् this one, इदानीम् now, सम्पश्य do see.

Summary

O Manthara now see, for sure, Bharata and not Rama will get the kingdom by any means.

पदच्छेदः

इदंइदम् (२.१)
त्व्तु (अव्ययः)
इदानींइदानीम् (अव्ययः)
संपश्यसंपश्य (√सम्-पश् लोट् म.पु. )
केनोपायेन (३.१)–उपाय (३.१)
मन्थरेमन्थरा (८.१)
भरतःभरत (१.१)–भरत (१.१)
प्राप्नुयाद्प्राप्नुयात् (√प्र-आप् विधिलिङ् प्र.पु. एक.)–प्राप्नुयात् (√प्र-आप् विधिलिङ् प्र.पु. एक.)
राज्यंराज्य (२.१)–राज्य (२.१)
(अव्ययः)–न (अव्ययः)
तुतु (अव्ययः)–तु (अव्ययः)
रामःराम (१.१)–राम (१.१)
कथंचनकथंचन (अव्ययः)–कथंचन (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दंत्वि दा नीं संश्य
के नो पा येन्थ रे
तः प्राप्नु या द्रा ज्यं
तु रा मः थं