२.९.३१

उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम् ।
अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम् ॥

अन्वयः

ते उर: your breasts, अभिनिविष्टम् are thick, यावत्स्कन्धात् up to the shoulders, समुन्नतम् is high, अधस्तात् beneath it, सुनाभम् beautiful naval, उदरं च belly also, लज्जितं इव as if bashful , शातम् is slender.

Summary

Your breasts are thick and are as high as your shoulders. Beneath them lies your belly with its beautiful navel (waist) looking slender as if out of bashfulness.

पदच्छेदः

उरस्उरस् (१.१)
तेत्वद् (६.१)
ऽभिनिविष्टंअभिनिविष्ट (√अभिनि-विश् + क्त, १.१)
वैवै (अव्ययः)
यावत्यावत् (अव्ययः)
स्कन्धात्स्कन्ध (५.१)
समुन्नतम्समुन्नत (√समुत्-नम् + क्त, १.१)
अधस्ताच्अधस्तात् (अव्ययः)
चोदरं (अव्ययः)–उदर (१.१)
शान्तंशान्त (√शम् + क्त, १.१)
इवइव (अव्ययः)
लज्जितम्लज्जित (√लज्ज् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तेऽभिनि वि ष्टं वै
या त्स्क न्धात्स मुन्न तम्
स्ता च्चो रं शा न्तं
सु नामिज्जि तम्