२.९.३२

जघनं तव निर्घुष्टं रशनादामशोभितम् ।
जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥

अन्वयः

तव your, रशनादामशोभितम् glittering with girdle, जघनम् hips, निर्घुष्टम् jingling, जङ्घे the calfs of the legs, भृशम् exceedingly, उपन्यस्ते are set strong, उभौ both, पादौ च your feet also, आयतौ are long.

Summary

Your hips, glitter with the jingling girdle. Strong are the calfs of your legs and long are your feet.

पदच्छेदः

जघनंजघन (१.१)
तवत्वद् (६.१)
निर्घुष्टंनिर्घुष्ट (१.१)
रशनादामशोभितम्रशना–दामन्–शोभित (√शोभय् + क्त, १.१)
जङ्घेजङ्घा (१.२)
भृशम्भृशम् (अव्ययः)
उपन्यस्तेउपन्यस्त (√उपनि-अस् + क्त, १.२)
पादौपाद (१.२)
चाप्य् (अव्ययः)–अपि (अव्ययः)
आयताव्आयत (√आ-यम् + क्त, १.२)
उभौउभ् (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नं नि र्घु ष्टं
ना दा शोभि तम्
ङ्घेभृमु न्य स्ते
पा दौ चा प्या तावु भौ