२.९.३३

त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि ।
अग्रतो मम गच्छन्ती राजहंसीव राजसे ॥

अन्वयः

मन्थरे O Manthara, आयताभ्याम् heavy, सक्थिभ्याम् with both thighs, त्वम् you, क्षौमवासिनी clad in silk garment, मम my, अग्रत: in front of, गच्छन्ती walking, राजहंसीव like female royal swan, राजसे shine.

Summary

O Manthara when clad in silk garment you walk in front of me with your heavy thighs, you look like a female royal swan.

पदच्छेदः

त्वम्त्वद् (१.१)
आयताभ्यांआयत (√आ-यम् + क्त, ३.२)
सक्थिभ्यांसक्थि (३.२)
मन्थरेमन्थरा (८.१)
क्षौमवासिनिक्षौम–वासिन् (८.१)
अग्रतोअग्रतस् (अव्ययः)
मममद् (६.१)
गच्छन्तीगच्छत् (√गम् + शतृ, १.१)
राजहंसीवराजहंसी (१.१)–इव (अव्ययः)
राजसेराजसे (√राज् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व मा ता भ्यां क्थि भ्यां
न्थ रे क्षौ वासिनि
ग्र तो च्छ न्ती
रा हं सी रा से