२.९.४०

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥

अन्वयः

इति thus, प्रशस्यमाना being praised, सा that(Manthara), वेद्याम् on a sacrificial altar, अग्निशिखामिव like a flaming fire, शुभ्रे white, शयने in the couch, शयानाम् lying down, कैकेयीम् addressing Kaikeyi, इदम् this, अब्रवीत् said.

Summary

Flattered in this manner, Manthara addressed Kaikeyi who was lying on a white couch and looking like a flaming fire on the sacrificial altar:

पदच्छेदः

इतिइति (अव्ययः)
प्रशस्यमानाप्रशस्यमान (√प्र-शंस् + शानच्, १.१)
सातद् (१.१)
कैकेयीम्कैकेयी (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
शयानांशयान (√शी + शानच्, २.१)
शयनेशयन (७.१)
शुभ्रेशुभ्र (७.१)
वेद्याम्वेदि (७.१)
अग्निशिखाम्अग्नि–शिखा (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तिप्रस्य मा ना सा
कै के यीमिब्र वीत्
या नां ने शु भ्रे
वे द्याग्निशि खामि