२.९.४२

तथा प्रोत्साहिता देवी गत्वा मन्थरया सह ।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥

पदच्छेदः

तथातथा (अव्ययः)
प्रोत्साहिताप्रोत्साहित (√प्रोद्-साहय् + क्त, १.१)
देवीदेवी (१.१)
गत्वागत्वा (√गम् + क्त्वा)
मन्थरयामन्थरा (३.१)
सहसह (अव्ययः)
क्रोधागारंक्रोध–आगार (२.१)
विशालाक्षीविशाल–अक्ष (१.१)
सौभाग्यमदगर्वितासौभाग्य–मद–गर्वित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था प्रो त्साहि ता दे वी
त्वान्थ या
क्रो धा गा रंवि शा ला क्षी
सौ भाग्यर्वि ता