२.९.४६

अथैतदुक्त्वा वचनं सुदारुणं; निधाय सर्वाभरणानि भामिनी ।
असंवृतामास्तरणेन मेदिनीं; तदाधिशिश्ये पतितेव किन्नरी ॥

अन्वयः

भामिनी that beautiful one (Kaikeyi), सुदारुणम् dreadful, एतत् वचनम् this word, उक्त्वा having said, अथ after that, सर्वाभरणानि all ornaments, निधाय having removed, पतिता fallen, किन्नरी इव like a 'kinnar', तदा then, आस्तरणेन by a carpet, असंवृताम् uncovered, मेदिनीम् the earth, अधिशिश्ये lay down.

Summary

Saying these ruthless words, that lovely Kaikeyi cast off all her ornaments like a fallen 'kinnara' woman, and lay down on the floor with the carpet removed.

पदच्छेदः

अथैतद्अथ (अव्ययः)–एतद् (२.१)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
वचनंवचन (२.१)
सुदारुणंसु (अव्ययः)–दारुण (२.१)
निधायनिधाय (√नि-धा + ल्यप्)
सर्वाभरणानिसर्व–आभरण (२.३)
भामिनीभामिनी (१.१)
असंवृताम्असंवृत (२.१)
आस्तरणेनआस्तरण (३.१)
मेदिनींमेदिनी (२.१)
तदाधिशिश्येतदा (अव्ययः)–अधिशिश्ये (√अधि-शी लिट् प्र.पु. एक.)
पतितेवपतित (√पत् + क्त, १.१)–इव (अव्ययः)
किंनरीकिंनरी (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
थै दु क्त्वा नंसु दारु णं
नि धा र्वा णानि भामि नी
संवृ ता मास्त णे मेदि नीं
दाधि शि श्येति ते किन्न री