२.९०.१३

संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥

अन्वयः

कैकेय्याः Kaikeyi's, सुतः son, भरतः Bharata, अभिषेचनम् प्राप्य having been consecrated, राज्यम् kingdom, सम्पन्नम् endowed with prosperity (without obstacles), इच्छन् desiring, आवाम् both of us, हन्तुम् to slay, समभ्येति is coming, व्यक्तम् this is evident.

M N Dutt

Having got himself installed, Kaikeyi's son, Bharata, anxious to render his royalty perfectly safe, is coming hither for the purpose of slaying us both.

Summary

It is evident that Kaikeyi's son Bharata, who has been consecrated, is coming to slay both of us desiring the prosperous kingdom (to be without obstacles).

पदच्छेदः

सम्पन्नंसम्पन्न (√सम्-पद् + क्त, २.१)
राज्यम्राज्य (२.१)
इच्छंस्इच्छत् (√इष् + शतृ, १.१)
तुतु (अव्ययः)
व्यक्तंव्यक्त (२.१)
प्राप्याभिषेचनम्प्राप्य (√प्र-आप् + ल्यप्)–अभिषेचन (२.१)
आवांमद् (२.२)
हन्तुंहन्तुम् (√हन् + तुमुन्)
समभ्येतिसमभ्येति (√समभि-इ लट् प्र.पु. एक.)
कैकेय्याकैकेयी (६.१)
भरतःभरत (१.१)
सुतःसुत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं न्नं राज्य मि च्छंस्तु
व्य क्तं प्रा प्याभि षे नम्
वां न्तुं भ्येति
कै के य्या तःसु तः