२.९०.१९

भरतस्य वधे दोषं नाहं पश्यामि राघव ।
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुंधराम् ॥

अन्वयः

राघव O Rama, भरतस्य Bharta's, वधे in slaying, अहम् I, दोषम् wrong, न पश्यामि do not see, पूर्वापकारिणम् one who has done harmful act earlier, हत्वा in slaying, अधर्मेण with unrighteousness, न युज्यते is not attached.

Summary

O Rama, I do not see anything wrong in slaying Bharata. In killing one who had done harm is not an act of unrighteousness.

पदच्छेदः

भरतस्यभरत (६.१)
वधेवध (७.१)
दोषंदोष (२.१)
नाहं (अव्ययः)–मद् (१.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
राघवराघव (८.१)
पूर्वापकारिणांपूर्व–अपकारिन् (६.३)
त्यागेत्याग (७.१)
(अव्ययः)
ह्य्हि (अव्ययः)
अधर्मोअधर्म (१.१)
विधीयतेविधीयते (√वि-धा प्र.पु. एक.)
एतस्मिन्एतद् (७.१)
निहतेनिहत (√नि-हन् + क्त, ७.१)
कृत्स्नाम्कृत्स्न (२.१)
अनुशाधिअनुशाधि (√अनु-शास् लोट् म.पु. )
वसुंधराम्वसुंधरा (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
स्य धे दो षं ना हं श्या
मि रा पू र्वा कारि णां त्या गे
ह्य र्मोवि धी ते स्मिन्नि
ते कृ त्स्नानु शाधि सुं राम्