२.९०.६

राजा वा राजमात्रो वा मृगयामटते वने ।
अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि ।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥

अन्वयः

सौमित्रे O Lakshmana, राजा वा king or, राजपुत्रो वा or prince, वने in the forest, मृगयाम् अटते is hunting, वा or, किञ्चित् any, अन्यत् other, श्वापदम् ferocious animal, ज्ञातुम् to know, अर्हसि ought to

Summary

O Lakshmana, do ascertain if any king or prince has come for hunting or whether any ferocious animal has entered this forest, shouldn't you?

पदच्छेदः

राजाराजन् (१.१)
वावा (अव्ययः)
राजमात्रोराजमात्र (१.१)
वावा (अव्ययः)
मृगयाम्मृगया (२.१)
अटतेअटते (√अट् लट् प्र.पु. एक.)
वनेवन (७.१)
अन्यद्अन्य (२.१)
वावा (अव्ययः)
श्वापदंश्वापद (२.१)
किंचित्कश्चित् (२.१)
सौमित्रेसौमित्रि (८.१)
ज्ञातुम्ज्ञातुम् (√ज्ञा + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
सर्वम्सर्व (२.१)
एतद्एतद् (२.१)
यथातत्त्वम्यथातत्त्वम् (अव्ययः)
अचिराज्ज्ञातुम्अचिरात् (अव्ययः)–ज्ञातुम् (√ज्ञा + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
रा जा वा रा मा त्रो वामृ या
ते ने न्य द्वा श्वा दं किंचि
त्सौ मि त्रे ज्ञातुर्हसिर्व मे
द्य थात्त्वचि रा ज्ज्ञातुर्हसि