२.९१.६

कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि ।
भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः ॥

अन्वयः

सौमित्रे O Lakshmana, कस्यां चित् आपदि in whatever calamity, पुत्र: son, पितरम् father, कथं नु how, हन्युः can slay, भ्राता वा or a brother, आत्मनः as his own, प्राणम् life, भ्रातरम् his own brother, हन्यात् will kill?

M N Dutt

Do sons, in times of peril, ever slay their father, or brothers their brother like to their life, O son of Sumitrā?

Summary

Whatever be the calamity, O Lakshmana, how will sons slay their father, or a brother kill his own brother who is as dear to him as his own life?

पदच्छेदः

कथंकथम् (अव्ययः)
नुनु (अव्ययः)
पुत्राःपुत्र (१.३)
पितरंपितृ (२.१)
हन्युःहन्युः (√हन् विधिलिङ् प्र.पु. बहु.)
कस्यांचिद्कश्चित् (७.१)
आपदिआपद् (७.१)
भ्राताभ्रातृ (१.१)
वावा (अव्ययः)
भ्रातरंभ्रातृ (२.१)
हन्यात्हन्यात् (√हन् विधिलिङ् प्र.पु. एक.)
सौमित्रेसौमित्रि (८.१)
प्राणम्प्राण (२.१)
आत्मनःआत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थंनु पु त्राःपि रं
न्युः स्यांचि दादि
भ्रा ता वा भ्रा रं न्या
त्सौ मि त्रे प्रा मात्म नः