२.९२.१४

तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः ।
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥

अन्वयः

श्रीमान् the majestic, सह बान्धवः with relatives, भरतः Bharata, तम् that smoke, दृष्ट्वा having seen, रामः Rama, अत्र इति here he is, ज्ञात्वा having known, अम्भसः of waters, पारम् the other bank, गतः इव having reached, मुमोद rejoiced.

M N Dutt

Having seen this, like one that has crossed over the ocean, the graceful Bharata, concluding that Rāma was there, rejoiced exceedingly along with his friends.

Summary

On seeing the smoke, majestic Bharata in the company of relatives concluded that Rama was staying there and rejoiced like a man who had reached the other bank of the river.

पदच्छेदः

तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
भरतःभरत (१.१)
श्रीमान्श्रीमत् (१.१)
मुमोदमुमोद (√मुद् लिट् प्र.पु. एक.)
सहबान्धवःसहबान्धव (१.१)
अत्रअत्र (अव्ययः)
रामराम (१.१)
इतिइति (अव्ययः)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
गतःगत (√गम् + क्त, १.१)
पारम्पार (२.१)
इवाम्भसःइव (अव्ययः)–अम्भस् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं दृ ष्ट्वा तः श्री मा
न्मु मो बान्ध वः
त्र रा ति ज्ञा त्वा
तः पामि वाम्भ सः