२.९३.१

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥

अन्वयः

तदा then, सेनायाम् when the army, निविष्टायाम् encamped, भरतः Bharata, उत्सुकः with eagerness, शत्रुघ्नम् Satrughna, अनुदर्शयन् showing, भ्रातरम् brother, द्रष्टुम् to see, जगाम went.

M N Dutt

Having quartered his forces, Bharata eager (to go to Rāma's place), went to see his brother, showing to Satrughna the signs of Rāma's abode being in the vicinity.

Summary

After the army encamped in the assigned places, Bharata said to his brother Satrughna thus:

पदच्छेदः

निविष्टायांनिविष्ट (√नि-विश् + क्त, ७.१)
तुतु (अव्ययः)
सेनायाम्सेना (७.१)
उत्सुकोउत्सुक (१.१)
भरतस्भरत (१.१)
तदातदा (अव्ययः)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
भ्रातरंभ्रातृ (२.१)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
शत्रुघ्नम्शत्रुघ्न (२.१)
अनुदर्शयन्अनुदर्शयत् (√अनु-दर्शय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि वि ष्टा यांतु से ना या
मुत्सु कोस्त दा
गा भ्रा रं द्र ष्टुं
त्रुघ्ननुर्श यन्