२.९३.२१

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥

पदच्छेदः

महारजतवासोभ्याम्महारजत–वासस् (३.२)
असिभ्यांअसि (३.२)
(अव्ययः)
विराजिताम्विराजित (√वि-राज् + क्त, २.१)
रुक्मबिन्दुविचित्राभ्यांरुक्म–बिन्दु–विचित्र (३.२)
चर्मभ्यांचर्मन् (३.२)
चापि (अव्ययः)–अपि (अव्ययः)
शोभिताम्शोभित (√शोभय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हा वा सो भ्या
सि भ्यांवि राजि ताम्
रुक्म बिन्दुवि चि त्रा भ्यां
र्म भ्यां चापि शोभि ताम्