२.९३.२२

गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः ।
अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव ॥

पदच्छेदः

गोधाङ्गुलित्रैर्गोधा–अङ्गुलित्र (३.३)
आसक्तैश्आसक्त (√आ-सञ्ज् + क्त, ३.३)
चित्रैःचित्र (३.३)
काञ्चनभूषितैःकाञ्चन–भूषित (√भूषय् + क्त, ३.३)
अरिसंघैर्अरि–संघ (३.३)
अनाधृष्यांअनाधृष्य (२.१)
मृगैःमृग (३.३)
सिंहगुहाम्सिंह–गुहा (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गो धाङ्गु लि त्रै रा सा क्तै
श्चि त्रैः काञ्च भूषि तैः
रि सं घै ना धृ ष्यां
मृ गैः सिंगु हामि