२.९३.३८

बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।
आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः ॥

अन्वयः

यशस्विनम् glorious, रामम् Rama, प्रेक्ष्य on seeing, बाष्पाभिहतकण्ठश्च with choked throat, अथ then, आर्येत्येव O Arya, सङ्क्रुश्य crying out, तदा thereafter, व्याहर्तुम् to talk further, नाशकत् was not able.

M N Dutt

And beholding the illustrious Rāma, Bharata with his utterance choked with emotion, exclaimed, O noble one, and was unable to say anything further.

Summary

As he beheld the glorious Rama, with his throat choken with tears, he cried out, O Arya (venerable one) and thereafter, was unable to speak any more.

पदच्छेदः

बाष्पापिहितकण्ठश्बाष्प–अपिहित (√अपि-धा + क्त)–कण्ठ (१.१)
(अव्ययः)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
रामंराम (२.१)
यशस्विनम्यशस्विन् (२.१)
आर्येत्य्आर्य (८.१)–इति (अव्ययः)
एवाभिसंक्रुश्यएव (अव्ययः)–अभिसंक्रुश्य (√अभिसम्-क्रुश् + ल्यप्)
व्याहर्तुंव्याहर्तुम् (√व्या-हृ + तुमुन्)
नाशकत् (अव्ययः)–अशकत् (√शक् प्र.पु. एक.)
ततःततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बा ष्पापिहि ण्ठश्च
प्रेक्ष्य रा मंस्वि नम्
र्ये त्ये वाभि सं क्रुश्य
व्या र्तुं नात्त तः