२.९४.११

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥

अन्वयः

राघव O Bharata, शास्त्रकोविदैः by men learned in scriptures, मन्त्रधरैः by those who can withhold proper counselling, अमात्यैः by ministers, सुसंवृतः wellguarded, मन्त्रः advice, राज्ञाम् to the king, विजयमूलम् root of victory, भवति हि will become.

M N Dutt

O descendant of Raghu, counsel well kept by clever councillors versed in lore, is the root of victory with kings.

Summary

O Bharata the wellguarded advice of ministers, learned in scriptures and capable of proper counselling, is the root of victory for kings, specially when the advice is kept in confidence.

पदच्छेदः

मन्त्रोमन्त्र (१.१)
विजयमूलंविजय–मूल (१.१)
हिहि (अव्ययः)
राज्ञांराजन् (६.३)
भवतिभवति (√भू लट् प्र.पु. एक.)
राघवराघव (८.१)
सुसंवृतोसु (अव्ययः)–संवृत (√सम्-वृ + क्त, १.१)
मन्त्रधरैर्मन्त्र–धर (३.३)
अमात्यैःअमात्य (३.३)
शास्त्रकोविदैःशास्त्र–कोविद (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्त्रोवि मू लंहि
रा ज्ञांति रा
सु संवृ तोन्त्र रै
मा त्यैः शास्त्र कोवि दैः