२.९४.२६

कचिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
संप्राप्तकालं दातव्यं ददासि न विलम्बसे ॥

अन्वयः

बलस्य of the army, दातव्यम् to be given, भक्तं च food (rations), यथोचितम् suitable, वेतनं च wages, सम्प्राप्तकालम् in due time, ददासि कच्चित् I trust you are paying, न विलम्बसे not delaying.

M N Dutt

And do you at the proper time grant your soldiers what you should, provision and pay; and do not delay in doing this?

Summary

I trust you distribute rations and wages to your army in due time without making delay.

पदच्छेदः

कच्चिद्कच्चित् (अव्ययः)
बलस्यबल (६.१)
भक्तंभक्त (२.१)
(अव्ययः)
वेतनंवेतन (२.१)
(अव्ययः)
यथोचितम्यथोचित (२.१)
सम्प्राप्तकालंसम्प्राप्त (√सम्प्र-आप् + क्त)–काल (२.१)
दातव्यंदातव्य (√दा + कृत्, २.१)
ददासिददासि (√दा लट् म.पु. )
(अव्ययः)
विलम्बसेविलम्बसे (√वि-लम्ब् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चिद्बस्य क्तं
वे नं थोचि तम्
सं प्राप्त का लं दा व्यं
दासिविम्ब से