२.९४.४२

कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥

अन्वयः

स्त्रियः women, सान्त्वयसि कच्चित् I hope you are pacifying, ताः they, ते to (by) you, सुरक्षिताः कच्चित् I trust they are guarded well, आसाम् words of the women, न श्रद्धास्यासां कच्चित् I trust you believe not, गुह्यम् secret, न भाषसे कच्चित् I trust you do not divulge.

M N Dutt

And do you conciliate the females; and are they well protected by you? And do you not regard them; and do you not open to them your mind?

Summary

I trust, you keep the women pacified and wellprotected, you do not believe their words and do not divulge any secrets to them.

पदच्छेदः

कच्चित्कच्चित् (अव्ययः)
स्त्रियःस्त्री (२.३)
सान्त्वयसिसान्त्वयसि (√सान्त्वय् लट् म.पु. )
कच्चित्कच्चित् (अव्ययः)
ताश्तद् (१.३)
(अव्ययः)
सुरक्षिताःसु (अव्ययः)–रक्षित (√रक्ष् + क्त, १.३)
कच्चिन्कच्चित् (अव्ययः)
(अव्ययः)
श्रद्दधास्यासांश्रद्दधासि (√श्रद्-धा लट् म.पु. )–इदम् (६.३)
कच्चिद्कच्चित् (अव्ययः)
गुह्यंगुह्य (२.१)
(अव्ययः)
भाषसेभाषसे (√भाष् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्चित्स्त्रि यः सान्त्वसि
च्चि त्ताश्चसुक्षि ताः
च्चि न्न श्रद्द धा स्या सां
च्चि द्गु ह्यं भा से