२.९४.४५

आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥

अन्वयः

राघव O Bharata, ते your, आयः revenues, विपुलः कच्चित् are abundant, I trust, व्ययः expenditure, अल्पतरः कच्चित् is much less, I hope, ते your, कोशः treasury, अपात्रेषु to undeserving people, न गच्छति कच्चित् does not pass, I trust.

M N Dutt

And are your incomings great and outgoings slender? And, O Raghu's descendant, you do not give away your coffers to the undeserving?

Summary

O Bharata, I trust, your revenues are abundant and expenditure much less. I trust you do not give away your treasure to undeserving persons.

पदच्छेदः

आयस्आय (१.१)
तेत्वद् (६.१)
विपुलःविपुल (१.१)
कच्चित्कच्चित् (अव्ययः)
कच्चिद्कच्चित् (अव्ययः)
अल्पतरोअल्पतर (१.१)
व्ययःव्यय (१.१)
अपात्रेषुअपात्र (७.३)
(अव्ययः)
तेत्वद् (४.१)
कच्चित्कच्चित् (अव्ययः)
कोशोकोश (१.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
राघवराघव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तेविपु लःच्चि
त्कच्चिल्प रोव्य यः
पा त्रेषु तेच्चि
त्को शोच्छति रा