२.९४.४६

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥

अन्वयः

ते your, व्ययः expenditure, देवतार्थे च for the sake of the gods, पित्रर्थे for the sake of ancestors, ब्राह्मणाभ्यागतेषु for brahmins and guests, योधेषु on warriors, मित्रवर्गेषु on hordes of friends, गच्छति कच्चित् is being spent I hope.

M N Dutt

And did you spend your wealth in the interests of the deities, or the pitris, or the Brāhmaṇas who have come to you, or warriors, or friends?

Summary

I trust, you are spending only on gods, ancestors, brahmins, guests, warriors and hosts of friends.

पदच्छेदः

देवतार्थेदेवता–अर्थ (७.१)
(अव्ययः)
पित्रर्थेपितृ–अर्थ (७.१)
ब्राह्मणाभ्यागतेषुब्राह्मण–अभ्यागत (√अभ्या-गम् + क्त, ७.३)
(अव्ययः)
योधेषुयोध (७.३)
मित्रवर्गेषुमित्र–वर्ग (७.३)
कच्चिद्कच्चित् (अव्ययः)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
तेत्वद् (६.१)
व्ययःव्यय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे ता र्थे पि त्र र्थे
ब्राह्म णा भ्या तेषु
यो धेषु मित्र र्गेषु
च्चि द्गच्छति तेव्य यः