२.९४.५०

यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।
तानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः ॥

अन्वयः

राघव Bharata, मिथ्याभिशस्तानाम् of those who are falsely accused, यानि अश्रूणि those tears, पतन्ति fall, तानि they, प्रीत्यर्थम् for the sake of pleasure, अनुशासतः one who commands, पुत्रान्पशून् his sons and cattle, घ्नन्ति they will destroy.

M N Dutt

O son of the Raghu race, the tears of those who have been falsely charged with any offence, (and who have failed to obtain justice), dropping, destroy the sons as well as the beasts of the ruler that minds his own comfort only.

Summary

O Bharata, the tears falling from the eyes of persons, who are falsely accused and punished for the pleasure of the king will destroy his progeny and cattle as well.

पदच्छेदः

यानियद् (१.३)
मिथ्याभिशस्तानांमिथ्या (अव्ययः)–अभिशस्त (√अभि-शंस् + क्त, ६.३)
पतन्त्य्पतन्ति (√पत् लट् प्र.पु. बहु.)
अस्राणिअस्र (१.३)
राघवराघव (८.१)
तानितद् (१.३)
पुत्रपशून्पुत्र–पशु (२.३)
घ्नन्तिघ्नन्ति (√हन् लट् प्र.पु. बहु.)
प्रीत्यर्थम्प्रीति–अर्थ (२.१)
अनुशासतःअनुशासत् (√अनु-शास् + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यानि मि थ्याभि स्ता नां
न्त्य स्राणि रा
तानि पुत्र शू न्घ्नन्ति
प्री त्यर्थनु शा तः