२.९५.४६

स तत्र कांश्चित्परिषस्वजे नरा;न्नराश्च केचित्तु तमभ्यवादयन् ।
चकार सर्वान्सवयस्यबान्धवा;न्यथार्हमासाद्य तदा नृपात्मजः ॥

अन्वयः

सः Rama, तत्र there, कांश्चित् some, नरान् men, परिषस्वजे embraced, केचित्तु as for some, नराश्च men, तम् that Rama, अभ्यवादयन् paid obeisance, तदा then, सः that, नृपात्मजः king's son, सर्वान् all of them, आसाद्य having reached, वयस्यबान्धवान् friends and relations, यथार्हम् as deserved, चकार made.

M N Dutt

And he embraced some persons; and some offered him salutations. And the king's son, as each deserved, properly received them along with their friends and equals in age.

Summary

Rama embraced some, while others paid him obeisance. Therafter, he honoured his erstwhile companions and relations in accordance with their status.

पदच्छेदः

तद् (१.१)
तत्रतत्र (अव्ययः)
कांश्चित्कश्चित् (२.३)
परिषस्वजेपरिषस्वजे (√परि-स्वज् लिट् प्र.पु. एक.)
नरान्नर (२.३)
नराश्नर (१.३)
(अव्ययः)
केचित्कश्चित् (१.३)
तुतु (अव्ययः)
तम्तद् (२.१)
अभ्यवादयन्अभ्यवादयन् (√अभि-वादय् लङ् प्र.पु. बहु.)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सर्वान्सर्व (२.३)
सवयस्यबान्धवान् (अव्ययः)–वयस्य–बान्धव (२.३)
यथार्हम्यथार्ह (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
तदातदा (अव्ययः)
नृपात्मजःनृप–आत्मज (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
त्र कां श्चित्परिस्व जे रा
न्न राश्च के चित्तुभ्य वा यन्
का र्वान्सस्य बान्ध वा
न्य थार्ह मा साद्य दानृ पात्म जः