२.९५.८

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरतेनोक्तां बभूव गतचेतनः ॥

अन्वयः

राघवः one born in the race of the Raghus (Rama), भरतेन by Bharata, उक्ताम् uttered, पितुः father's, मरणसंहिताम् union with death, करुणाम् pitiable, तां those, वाचम् words, श्रुत्वा on hearing, गत चेतनः unconscious, बभूव became.

M N Dutt

Hearing those piteous words uttered by Bharata in connection with the demise of their father, Rāghava was deprived of his senses.

Summary

Having heard the words of Bharata regarding the death of his father, Rama became unconscious.

पदच्छेदः

तांतद् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
करुणांकरुण (२.१)
वाचंवाच् (२.१)
पितुर्पितृ (६.१)
मरणसंहिताम्मरण–संहित (√सम्-धा + क्त, २.१)
राघवोराघव (१.१)
भरतेनोक्तांभरत (३.१)–उक्त (√वच् + क्त, २.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
गतचेतनःगत (√गम् + क्त)–चेतन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां श्रु त्वारु णां वा चं
पि तुर्म संहि ताम्
रा वो ते नो क्तां
भू चे नः